2026-03-05 07:16:43 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>ब्रह्मानुचिन्तनम् ।
८३
</ignore>
<verse>नित्योऽहं निर्विकल्पोऽहं निराकारोऽहमव्यय: ।
यः ।
सच्चिदानन्दरूपोऽहं पञ्चकोशातिगोऽस्म्यहम् ॥ १५ ॥
</verse>
<verse>अकर्ताहमभोक्ताहमसङ्गः परमेश्वरः ।
सदा मत्संनिधानेन चेष्टते सर्वमिन्द्रियम् ॥ १६ ॥
</verse>
<verse>आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन ।
स्वभावनिर्मलः शुद्धः स एवाहं न संशयः ॥ १७ ॥
</verse>
<verse>ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत् ।
अशक्नुवन्भावयितुं वाक्यमेतत्सदाभ्यसेत् ॥ १८ ॥
</verse>
<verse>यदभ्यासेन तद्भावो भवेद्धभ्रमरकीटवत् ।
अवात्रापहाय संदेहमभ्यसेत्कृतनिश्चयः ॥ १९ ॥
</verse>
<verse>ध्यानयोगेन मासैकाद्ब्रह्महत्यां व्यपोहति ।
संवत्सरं सदाभ्यासात्सिद्धध्यष्टकमवाप्नुयात् ॥ २० ॥
</verse>
<verse>यावज्जीवं सदाभ्यासाज्जीवन्मुक्तो भवेद्यति: ।
तिः ।
नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च ॥ २१ ॥
</verse>
<verse>न मनोऽहं न बुद्धिश्च नैव चित्तमहंकृतिः ।
नाहं पृथ्वी न सलिलं न च वह्निस्तथानिलः ॥ २२ ॥
</verse>
</page>
<ignore>ब्रह्मानुचिन्तनम् ।
<verse>नित्योऽहं निर्विकल्पोऽहं निराकारोऽहमव्य
सच्चिदानन्दरूपोऽहं पञ्चकोशातिगोऽस्म्यहम् ॥ १५ ॥
<verse>अकर्ताहमभोक्ताहमसङ्गः परमेश्वरः ।
सदा मत्संनिधानेन चेष्टते सर्वमिन्द्रियम् ॥ १६ ॥
<verse>आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन ।
स्वभावनिर्मलः शुद्धः स एवाहं न संशयः ॥ १७ ॥
<verse>ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत् ।
अशक्नुवन्भावयितुं वाक्यमेतत्सदाभ्यसेत् ॥ १८ ॥
<verse>यदभ्यासेन तद्भावो भवेद्
अ
<verse>ध्यानयोगेन मासैकाद्ब्रह्महत्यां व्यपोहति ।
संवत्सरं सदाभ्यासात्सिद्
<verse>यावज्जीवं सदाभ्यासाज्जीवन्मुक्तो भवेद्य
नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च ॥ २१ ॥
<verse>न मनोऽहं न बुद्धिश्च नैव चित्तमहंकृतिः ।
नाहं पृथ्वी न सलिलं न च वह्निस्तथानिलः ॥ २२ ॥
</page>