This page has not been fully proofread.

ब्रह्मानुचिन्तनम् ।
 
८३
 
नित्योऽहं निर्विकल्पोऽहं निराकारोऽहमव्यय: ।
सच्चिदानन्दरूपोऽहं पञ्चकोशातिगोऽस्म्यहम् ॥ १५ ॥
 
अकर्ताहमभोक्ताहमसङ्गः परमेश्वरः ।
 
सदा मत्संनिधानेन चेष्टते सर्वमिन्द्रियम् ॥ १६ ॥
 
आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन ।
स्वभावनिर्मलः शुद्धः स एवाहं न संशयः ॥ १७ ॥
 
ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत् ।
अशक्नुवन्भावयितुं वाक्यमेतत्सदाभ्यसेत् ॥ १८ ॥
 
यदभ्यासेन तद्भावो भवेद्धमरकीटवत् ।
 
अवापहाय संदेहमभ्यसेत्कृतनिश्चयः ॥ १९ ॥
 
ध्यानयोगेन मासैकाद्ब्रह्महत्यां व्यपोहति ।
संवत्सरं सदाभ्यासात्सिद्धयष्टकमवाप्नुयात् ॥ २० ॥
 
यावज्जीवं सदाभ्यासाज्जीवन्मुक्तो भवेद्यति: ।
नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च ॥ २१ ॥
 
न मनोऽहं न बुद्धिश्च नैव चित्तमहंकृतिः ।
 
नाहं पृथ्वी न सलिलं न च वह्निस्तथानिलः ॥ २२ ॥