This page has not been fully proofread.

८२
 
ब्रह्मानुचिन्तनम् ।
 
अहमात्मा न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ।
सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥ ७ ॥
 
आत्मानं सततं ब्रह्म संभाव्य विहरन्ति ये ।
न तेषां दुष्कृतं किंचिद्दुष्कृतोत्था न चापदः ॥ ८ ॥
 
आत्मानं सततं ब्रह्म संभाव्य विहरेत्सुखम् ।
क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् ॥ ९ ॥
 
तन्महापातकं हन्ति तमः सूर्योदयो यथा ।
अज्ञानाद्ब्रह्मणो जातमाकाशं बुद्बुदोपमम् ॥ १० ॥
 
आकाशाद्वायुरुत्पन्नो वायोस्तेजस्ततः पयः ।
 
अद्भयश्च पृथिवी जाता ततो व्रीहियवादिकम् ॥ ११ ॥
 
पृथिव्यप्सु पयो वह्नौ वह्निर्वाय नभस्यसौ ।
नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यहं हरिः ॥ १२ ॥
 
अहं विष्णुरहं विष्णुरहं विष्णुरहं हरिः ।
कर्तृभोक्वादिकं सर्वं तदविद्योत्थमेव च ॥ १३ ॥
 
अच्युतोऽहमनन्तोऽहं गोविन्दोऽहमहं हरिः ।
 
आनन्दोऽहमशेषोऽहमजोऽहममृतोऽस्म्यहम् ॥ १४ ॥