This page has been fully proofread once and needs a second look.

<page>
<subtitle>
॥ श्रीः ॥
 
</subtitle>
<title>
॥ ब्रह्मानुचिन्तनम् ॥
 
-88
 
</title>
<verse>
अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् ।

इति स्यान्निश्चितो मुक्तो बद्ध एवान्यथा भवेत् ॥ १ ॥
 
</verse>
<verse>
अहमेव परं ब्रह्म निश्चितं चित्त चिन्त्यताम् ।

चिद्रूपत्वादसङ्गत्वादवाध्यत्वात्प्रयत्नतः ॥ २ ॥
 
</verse>
<verse>
अहमेव परं ब्रह्म न चाहं ब्रह्मणः पृथक् ।

इत्येवं समुपासीत ब्राह्मणो ब्रह्मणि स्थितः ॥ ३ ॥
 
</verse>
<verse>
सर्वोपाधिविनिर्मुक्तं चैतन्यं च निरन्तरम् ।

तद्ब्रह्माहमिति ज्ञात्वा कथं वर्णाश्रमी भवेत् ॥ ४ ॥
</verse>
<verse>
अहं ब्रह्मास्मि यो वेद स सर्वं भवति त्विदम् ।

नाभूत्या ईशते देवास्तेषामात्मा भवेद्धि सः ॥ ५ ॥
</verse>
<verse>
अन्योऽसावहमन्योऽस्मीत्युपास्ते योऽन्यदेवताम् ।

न स वेद नरो ब्रह्म स देवानां यथा पशुः ॥ ६ ॥
 
</verse>
</page>