This page has been fully proofread once and needs a second look.

<page>
<ignore>
अद्वैतानुभूतिः ।
 
७७</ignore>
<verse>
ज्ञाते स्थाणौ कुतश्चोरचोराभावे भयं कुतः ।
 
७७
 

ज्ञाते स्वस्मिन्कुतो विश्वं विश्वाभावे कुतोऽखिलम् ॥ ७९ ॥
 
</verse>
<verse>
गुणवृत्तित्रयं भाति परस्परविलक्षणम् ।
 

सत्यात्मलक्षणे यस्मिन्स एवाहं निरंशकः ॥ ८० ॥
 
</verse>
<verse>
देहत्रयमिदं भाति यस्मिन्ब्रह्मणि सत्यवत् ।

तदेवाहं परं ब्रह्म देहत्रयविलक्षणः ॥ ८१ ।
 
</verse>
<verse>
जाग्रदादित्रयं यस्मिन्प्रत्यगात्मनि सत्यवत् ।

स एवाहं परं ब्रह्म जाग्रदादिविलक्षणः ॥ ८२ ॥
 
</verse>
<verse>
विश्वादिकत्रयं यस्मिन्परमात्मनि सत्यवत् ।

स एव परमात्माहं विश्वादिकविलक्षणः ॥ ८३ ॥
 
</verse>
<verse>
विराडादित्रयं भाति यस्मिन्साक्षिणि सत्यवत् ।

स एव सच्चिदानन्दलक्षणोऽहं स्वयंप्रभः ॥ ८४ ॥
 
</verse>
<trailer>
इति श्रीमत्परमंहसपरिव्राजकाचार्यस्य
 

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 

श्रीमच्छंकरभगवतः कृतौ

अद्वैतानुभूतिः संपूर्णा ॥
 

 
</trailer>
</page>