2026-03-07 05:51:30 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>७६
अद्वैतानुभूतिः ।
</ignore>
<verse>स्फटिके रक्तता मिथ्या मृषा खे नीलता यथा
तथा जगदिदं मिथ्या एकस्मिन्नद्वये मयि ॥ ७१ ॥
</verse>
<verse>जीवेश्वरादिभावेन भेदं पश्यति मूढधीः ।
निर्भेदे निर्विशेषेऽस्मिन्कथं भेदो भवेद्ध्रुवम् ॥ ७२ ॥
</verse>
<verse>लिङ्गस्य धारणादेव शिवोऽयं जीवतां व्रजेत् ।
लिङ्गनाशे शिवस्यास्य जीवतावेशता कुतः ॥ ७३ ॥
</verse>
<verse>शिव एव सदा जीवो जीव एव सदा शिवः ।
वेत्त्यैक्यमनयोर्यस्तु स आत्मज्ञो न चेतरः ॥ ७४ ॥
</verse>
<verse>क्षीरयोगाद्यथा नीरं क्षीरवद्दृश्यते मृषा ।
आत्मयोगादनात्मायमात्मवद्दृश्यते तथा ॥ ७५ ॥
</verse>
<verse>नीरात्क्षीरं पृथक्कृत्य हंसो भवति नान्यथा
।
स्थूलादेः स्वं पृथक्कृत्य मुक्तो भवति नान्यथा ॥ ७६ ॥
</verse>
<verse>क्षीरनीरविवेकज्ञो हंस एव न चेतरः ।
आत्मानात्मविवेकज्ञो यतिरेव न चेतरः ॥ ७७ ॥
</verse>
<verse>अध्यस्त चोरजः स्थाणोर्विकारः स्यान्न हि कक्वचित् ।
नात्मनो निर्विकारस्य विकारो विश्वजस्तथा ॥ ७८ ॥
</verse>
</page>
<ignore>७६
<verse>स्फटिके रक्तता मिथ्या मृषा खे नीलता यथा
तथा जगदिदं मिथ्या एकस्मिन्नद्वये मयि ॥ ७१ ॥
<verse>जीवेश्वरादिभावेन भेदं पश्यति मूढधीः ।
निर्भेदे निर्विशेषेऽस्मिन्कथं भेदो भवेद्ध्रुवम् ॥ ७२ ॥
<verse>लिङ्गस्य धारणादेव शिवोऽयं जीवतां व्रजेत् ।
लिङ्गनाशे शिवस्यास्य जीवतावेशता कुतः ॥ ७३ ॥
<verse>शिव एव सदा जीवो जीव एव सदा शिवः ।
वेत्त्यैक्यमनयोर्यस्तु स आत्मज्ञो न चेतरः ॥ ७४ ॥
<verse>क्षीरयोगाद्यथा नीरं क्षीरवद्दृश्यते मृषा ।
आत्मयोगादनात्मायमात्मवद्दृश्यते तथा ॥ ७५ ॥
<verse>नीरात्क्षीरं पृथक्कृत्य हंसो भवति नान्यथा
स्थूलादेः स्वं पृथक्कृत्य मुक्तो भवति नान्यथा ॥ ७६ ॥
<verse>क्षीरनीरविवेकज्ञो हंस एव न चेतरः ।
आत्मानात्मविवेकज्ञो यतिरेव न चेतरः ॥ ७७ ॥
<verse>अध्यस्त