2026-03-07 05:49:31 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>अद्वैतानुभूतिः ।
७५</ignore>
<verse>मुकुरस्थं मुखं यद्वन्मुखवत्प्रथते मृषा ।
बुद्धिस्थाभास कस्तद्वदात्मवत्प्रथते मृषा ॥ ६३ ।
॥</verse>
<verse>मुकुरस्थस्य नाशेन मुखनाशो भवेत्कथम् ।
बुद्धिस्थाभासनाशेन नाशो नैवात्मनः क्वचित् ॥ ६४ ॥
</verse>
<verse>ताम्रकल्पितदेवादिस्ताम्रादन्य इव स्फुरेत् ।
प्रतिभास्यादिरूपेण तथात्मोत्थमिदं जगत् ॥ ६५ ॥
</verse>
<verse>ईशजीवात्मवद्भाति यथैकमपि ताम्रकम् ।
एकोऽप्यात्मा तथैवायमीशजीवादिवन्मृषा ॥ ६६ ॥
</verse>
<verse>यथेश्वरादिनाशेन ताम्रनाशो न विद्यते ।
तथेश्वरादिनाशेन नाशो नैवात्मनः सदा ॥ ६७ ॥
</verse>
<verse>अध्यस्तो रज्जुसर्पोऽयं सत्यवद्रज्जुसत्तया ।
तथा जगदिदं भाति सत्यवत्स्वात्मसत्तया ॥ ६८ ॥
</verse>
<verse>अध्यस्ताहेरभावेन रज्जुरेवावशिष्यते ।
तथा जगदभावेन सदात्मैवावशिष्यते ॥ ६९।
॥</verse>
<verse>स्फटिके रक्तता यद्वदुपाधेर्नीलताम्बरे ।
यथा जगदिदं भाति तथा सत्यमिवाद्वये ॥ ७० ॥
७५
</verse>
</page>
<ignore>अद्वैतानुभूतिः ।
<verse>मुकुरस्थं मुखं यद्वन्मुखवत्प्रथते मृषा ।
बुद्धिस्थाभास
<verse>मुकुरस्थस्य नाशेन मुखनाशो भवेत्कथम् ।
बुद्धिस्थाभासनाशेन नाशो नैवात्मनः क्वचित् ॥ ६४ ॥
<verse>ताम्रकल्पितदेवादिस्ताम्रादन्य इव स्फुरेत् ।
प्रतिभास्यादिरूपेण तथात्मोत्थमिदं जगत् ॥ ६५ ॥
<verse>ईशजीवात्मवद्भाति यथैकमपि ताम्रकम् ।
एकोऽप्यात्मा तथैवायमीशजीवादिवन्मृषा ॥ ६६ ॥
<verse>यथेश्वरादिनाशेन ताम्रनाशो न विद्यते ।
तथेश्वरादिनाशेन नाशो नैवात्मनः सदा ॥ ६७ ॥
<verse>अध्यस्तो रज्जुसर्पोऽयं सत्यवद्रज्जुसत्तया ।
तथा जगदिदं भाति सत्यवत्स्वात्मसत्तया ॥ ६८ ॥
<verse>अध्यस्ताहेरभावेन रज्जुरेवावशिष्यते ।
तथा जगदभावेन सदात्मैवावशिष्यते ॥ ६९