2026-02-24 05:32:36 by ambuda-bot
This page has not been fully proofread.
अद्वैतानुभूतिः ।
मुकुरस्थं मुखं यद्वन्मुखवत्प्रथते मृषा ।
बुद्धिस्थाभास कस्तद्वदात्मवत्प्रथते मृषा ॥ ६३ ।
मुकुरस्थस्य नाशेन मुखनाशो भवेत्कथम् ।
बुद्धिस्थाभासनाशेन नाशो नैवात्मनः क्वचित् ॥ ६४ ॥
ताम्रकल्पितदेवादिस्ताम्रादन्य इव स्फुरेत् ।
प्रतिभास्यादिरूपेण तथात्मोत्थमिदं जगत् ॥ ६५ ॥
ईशजीवात्मवद्भाति यथैकमपि ताम्रकम् ।
एकोऽप्यात्मा तथैवायमीशजीवादिवन्मृषा ॥ ६६ ॥
यथेश्वरादिनाशेन ताम्रनाशो न विद्यते ।
तथेश्वरादिनाशेन नाशो नैवात्मनः सदा ॥ ६७ ॥
अध्यस्तो रज्जुसर्पोऽयं सत्यवद्रज्जुसत्तया ।
तथा जगदिदं भाति सत्यवत्स्वात्मसत्तया ॥ ६८ ॥
अध्यस्ताहेरभावेन रज्जुरेवावशिष्यते ।
तथा जगदभावेन सदात्मैवावशिष्यते ॥ ६९ ।
स्फटिके रक्तता यद्वदुपाधेर्नीलताम्बरे ।
यथा जगदिदं भाति तथा सत्यमिवाद्वये ॥ ७० ॥
७५