2026-03-07 05:47:44 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>७४
अद्वैतानुभूतिः ।
</ignore>
<verse>प्रतिबिम्बचलत्वाद्या यथा बिम्बस्य कर्हिचित् ।
न भवेयुस्तथाभासकर्तृत्वाद्यास्तु नात्मनः ॥ ५५ ॥
</verse>
<verse>जले शैत्यादिकं यद्वज्जलभानुं न संस्पृशेत् ।
बुद्धेः कर्मादिकं तद्वञ्च्चिदाभासं न संस्पृशेत् ॥ ५६ ॥
</verse>
<verse>बुद्धेः कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु संयुतः ।
चिदाभासो विकारीव शरावस्थाम्बुभानुवत् ॥ ५७ ॥
</verse>
<verse>शरावस्थोदके नष्टे तत्स्थो भानुर्विनष्टवत् ।
बुद्धेर्लये तथा सुप्तौ नष्टवत्प्रतिभात्ययम् ॥ ५८ ॥
</verse>
<verse>जलस्थार्ककं जलं चोर्मिमिं भासयन्भाति भास्करः ।
आत्माभासं धियं बुद्धेः कर्तृत्वादीनयं तथा ॥ ५९ ॥
</verse>
<verse>मेघावभासको भानुर्मेघच्छन्नोऽवभासते ।
मोहावभासकस्तद्वन्मोहच्छन्नो विभात्यंययम् ॥ ६० ॥
</verse>
<verse>भास्यं मेघादिकं भानुर्भासयन्प्रतिभासते ।
तथा स्थूलादिकं भास्यं भासयन्प्रतिभात्ययम् ॥ ६१ ॥
</verse>
<verse>सर्वप्रकाशको भानुः प्रकाश्यैर्नैव दूष्यते ।
सर्वप्रकाशको ह्यात्मा सर्वैस्तद्वन्न दूष्यते ॥ ६२ ॥
</verse>
</page>
<ignore>७४
<verse>प्रतिबिम्बचलत्वाद्या यथा बिम्बस्य कर्हिचित् ।
न भवेयुस्तथाभासकर्तृत्वाद्यास्तु नात्मनः ॥ ५५ ॥
<verse>जले शैत्यादिकं यद्वज्जलभानुं न संस्पृशेत् ।
बुद्धेः कर्मादिकं तद्व
<verse>बुद्धेः कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु संयुतः ।
चिदाभासो विकारीव शरावस्थाम्बुभानुवत् ॥ ५७ ॥
<verse>शरावस्थोदके नष्टे तत्स्थो भानुर्विनष्टवत् ।
बुद्धेर्लये तथा सुप्तौ नष्टवत्प्रतिभात्ययम् ॥ ५८ ॥
<verse>जलस्थार्
आत्माभासं धियं बुद्धेः कर्तृत्वादीनयं तथा ॥ ५९ ॥
<verse>मेघावभासको भानुर्मेघच्छन्नोऽवभासते ।
मोहावभासकस्तद्वन्मोहच्छन्नो विभात्