2026-02-24 05:32:36 by ambuda-bot
This page has not been fully proofread.
७४
अद्वैतानुभूतिः ।
प्रतिबिम्बचलत्वाया यथा बिम्बस्य कर्हिचित् ।
न भवेयुस्तथाभासकर्तृत्वाद्यास्तु नात्मनः ॥ ५५ ॥
जले शैत्यादिकं यद्वज्जलभानुं न संस्पृशेत् ।
बुद्धेः कर्मादिकं तद्वञ्चिदाभासं न संस्पृशेत् ॥ ५६ ॥
बुद्धेः कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु संयुतः ।
चिदाभासो विकारीव शरावस्थाम्बुभानुवत् ॥ ५७ ॥
शरावस्थोदके नष्टे तत्स्थो भानुर्विनष्टवत् ।
बुद्धेर्लये तथा सुप्तौ नष्टवत्प्रतिभात्ययम् ॥ ५८ ॥
जलस्थार्क जलं चोर्मि भासयन्भाति भास्करः ।
आत्माभासं धियं बुद्धेः कर्तृत्वादीनयं तथा ॥ ५९ ॥
मेघावभासको भानुर्मेघच्छन्नोऽवभासते ।
मोहावभासकस्तद्वन्मोहच्छन्नो विभात्यंयम् ॥ ६० ॥
भास्यं मेघादिकं भानुर्भासयन्प्रतिभासते ।
तथा स्थूलादिकं भास्यं भासयन्प्रतिभात्ययम् ॥ ६१ ॥
सर्वप्रकाशको भानुः प्रकाश्यैर्नैव दूष्यते ।
सर्वप्रकाशको ह्यात्मा सर्वैस्तद्वन्न दूष्यते ॥ ६२ ॥