2026-03-07 05:45:41 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>अद्वैतानुभूतिः ।
</ignore>
<verse>हित्वायं स्वाभिप्निकं देहं जामग्रद्देहमपेक्षते ।
जाग्रद्देहप्रबुद्धोऽयं हित्वात्मानं यथा तथा ॥ ४७ ॥
</verse>
<verse>स्वप्नभोगे यथैवेच्छा प्रबुद्धस्य न विद्यते ।
असत्स्वर्गादिके भोगे नैवेच्छा ज्ञानिनस्तथा ॥ ४८ ॥
</verse>
<verse>भोक्त्रा बहिर्यथा भोग्यः सर्पोंपो दृषदि कल्पितः ।
रूपशीलादयश्चात्मभोगा भोग्यवरूपकाः ॥ ४९ ॥
</verse>
<verse>ज्ञस्य नास्त्येव संसारो यद्वदज्ञस्य कर्मिणः ।
जानतो नैव भीर्यद्वद्वरज्जुसर्पमजानतः ॥ ५० ॥
</verse>
<verse>सैन्धवस्य घनो यद्वज्जलयोगाज्जलं भवेत् ।
स्वात्मयोगात्तथा बुद्धिरात्मैव ब्रह्मवेदिनः ॥ ५१ ॥
</verse>
<verse>तोयाश्रयेषु सर्वेषु भानुरेकोऽप्यनेकवत् ।
एकोऽप्यात्मा तथा भाति सर्वक्षेत्रेष्वनेकवत् ॥ ५२ ॥
</verse>
<verse>भानोरन्य इवाभाति जलभानुर्जले यथा ।
आत्मनोऽन्य इवाभासो भाति बुद्धौ तथात्मनः ॥ ५३ ॥
</verse>
<verse>बिम्बं विना यथा नीरे प्रतिबिम्बो भवेत्कथम् ।
विनात्मानं तथा बुद्धौ चिदाभासो भवेत्कथम् ॥ ५४ ॥
m
</verse>
</page>
<ignore>अद्वैतानुभूतिः ।
<verse>हित्वायं स्वा
जाग्रद्देहप्रबुद्धोऽयं हित्वात्मानं यथा तथा ॥ ४७ ॥
<verse>स्वप्नभोगे यथैवेच्छा प्रबुद्धस्य न विद्यते ।
असत्स्वर्गादिके भोगे नैवेच्छा ज्ञानिनस्तथा ॥ ४८ ॥
<verse>भोक्त्रा बहिर्यथा भोग्यः सर्
रूपशीलादयश्चात्मभोगा भोग्यवरूपकाः ॥ ४९ ॥
<verse>ज्ञस्य नास्त्येव संसारो यद्वदज्ञस्य कर्मिणः ।
जानतो नैव भीर्यद्वद्