This page has not been fully proofread.

अद्वैतानुभूतिः ।
 
हित्वायं स्वाभिकं देहं जामद्देहमपेक्षते ।
 
जाग्रद्देहप्रबुद्धोऽयं हित्वात्मानं यथा तथा ॥ ४७ ॥
 
स्वप्नभोगे यथैवेच्छा प्रबुद्धस्य न विद्यते ।
असत्स्वर्गादिके भोगे नैवेच्छा ज्ञानिनस्तथा ॥ ४८ ॥
 
भोक्त्रा बहिर्यथा भोग्यः सर्पों दृषदि कल्पितः ।
रूपशीलादयश्चात्मभोगा भोग्यवरूपकाः ॥ ४९ ॥
 
ज्ञस्य नास्त्येव संसारो यद्वदज्ञस्य कर्मिणः ।
जानतो नैव भीर्यद्वद्वज्जुसर्पमजानतः ॥ ५० ॥
 
सैन्धवस्य घनो यद्वज्जलयोगाज्जलं भवेत् ।
स्वात्मयोगात्तथा बुद्धिरात्मैव ब्रह्मवेदिनः ॥ ५१ ॥
 
तोयाश्रयेषु सर्वेषु भानुरेकोऽप्यनेकवत् ।
 
एकोऽप्यात्मा तथा भाति सर्वक्षेत्रेष्वनेकवत् ॥ ५२ ॥
 
भानोरन्य इवाभाति जलभानुर्जले यथा ।
 
आत्मनोऽन्य इवाभासो भाति बुद्धौ तथात्मनः ॥ ५३ ॥
 
बिम्बं विना यथा नीरे प्रतिबिम्बो भवेत्कथम् ।
 
विनात्मानं तथा बुद्धौ चिदाभासो भवेत्कथम् ॥ ५४ ॥
 
m