2026-03-07 05:43:49 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>७૨.
अद्वैतानुभूतिः ।
</ignore>
<verse>सर्ववं जगदिदं नाहं विषयत्वादिददंधियः ।
अहं नाहं सुषुप्त्यादौ अहम :मः साक्षितः सदा ॥ ३९ ।
</verse>
<verse>सुप्तौ यथा निर्विकारस्तथावस्थाद्वयेऽपि च ।
द्वयोर्मात्राभियोगेन विकारीव विभाम्यहम् ॥ ४० ॥
</verse>
<verse>उपाधिनीलरक्ताद्यैः स्फटिको नैव लिप्यते ।
तथात्मा कोशजैः सर्वैः कामाद्यैर्नैव लिप्यते ॥ ४१ ॥
</verse>
<verse>फालेन भ्राम्यमाणेन भ्रमतीव यथा मही ।
अगोऽप्यात्मा विमूढेन चलतीव प्रदृश्यते ॥ ४२ ॥
</verse>
<verse>देहत्रयमिदं नित्यमात्मत्वेनाभिमन्यते ।
यावत्तावदयं मूढो नानायोनिषु जायते ॥ ४३ ॥
</verse>
<verse>निद्रादेहजदुःखादि जाग्रद्देहं न संस्पृशेत् ।
जाग्रद्देहजदुःखादिस्तथात्मानं न संस्पृशेत् ॥ ४४ ॥
जा</verse>
<verse>जाग्रद्देहवदाभाति निद्रादेहस्तु निद्रया ।
निद्रादेहविनाशेन जाग्रद्देहो न नश्यति ॥ ४५ ॥
</verse>
<verse>तथायमात्मवद्भाति जाग्रद्देहस्तु जागरात् ।
जाग्रद्देहविनाशेन नात्मा नश्यति कर्हिचित् ॥ ४६ ॥
</verse>
</page>
<ignore>७૨
<verse>सर्
अहं नाहं सुषुप्त्यादौ अह
<verse>सुप्तौ यथा निर्विकारस्तथावस्थाद्वयेऽपि च ।
द्वयोर्मात्राभियोगेन विकारीव विभाम्यहम् ॥ ४० ॥
<verse>उपाधिनीलरक्ताद्यैः स्फटिको नैव लिप्यते ।
तथात्मा कोशजैः सर्वैः कामाद्यैर्नैव लिप्यते ॥ ४१ ॥
<verse>फालेन भ्राम्यमाणेन भ्रमतीव यथा मही ।
अगोऽप्यात्मा विमूढेन चलतीव प्रदृश्यते ॥ ४२ ॥
<verse>देहत्रयमिदं नित्यमात्मत्वेनाभिमन्यते ।
यावत्तावदयं मूढो नानायोनिषु जायते ॥ ४३ ॥
<verse>निद्रादेहजदुःखादि जाग्रद्देहं न संस्पृशेत् ।
जाग्रद्देहजदुःखादिस्तथात्मानं न संस्पृशेत् ॥ ४४ ॥
जा