2026-02-24 05:32:35 by ambuda-bot
This page has not been fully proofread.
૨.
अद्वैतानुभूतिः ।
सर्व जगदिदं नाहं विषयत्वादिदधियः ।
अहं नाहं सुषुप्त्या अहम : साक्षितः सदा ॥ ३९ ।
सुप्तौ यथा निर्विकारस्तथावस्थाद्वयेऽपि च ।
द्वयोर्मात्राभियोगेन विकारीव विभाम्यहम् ॥ ४० ॥
उपाधिनीलरक्ताद्यैः स्फटिको नैव लिप्यते ।
तथात्मा कोशजैः सर्वैः कामाद्यैर्नैव लिप्यते ॥ ४१ ॥
फालेन भ्राम्यमाणेन भ्रमतीव यथा मही ।
अगोऽप्यात्मा विमूढेन चलतीव प्रदृश्यते ॥ ४२ ॥
देहत्रयमिदं नित्यमात्मत्वेनाभिमन्यते ।
यावत्तावदयं मूढो नानायोनिषु जायते ॥ ४३ ॥
निद्रादेहजदुःखादि जाग्रद्देहं न संस्पृशेत् ।
जाग्रद्देहजदुःखादिस्तथात्मानं न संस्पृशेत् ॥ ४४ ॥
जाहवदाभाति निद्रादेहस्तु निद्रया ।
निद्रादेहविनाशेन जाग्रद्देहो न नश्यति ॥ ४५ ॥
तथायमात्मवद्भाति जाग्रद्देहस्तु जागरात् ।
जाग्रद्देहविनाशेन नात्मा नश्यति कर्हिचित् ॥ ४६ ॥