2026-03-07 05:41:30 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>अद्वैतानुभूतिः ।
</ignore>
<verse>यथा न संस्पृशेत्सूत्रं पुष्पाणामुत्तमादिता ।
तथा नैकं सर्वगं मां देहानामुत्तमादिता ॥ ३१ ॥
</verse>
<verse>पुष्पेषु तेषु नष्टेषु यद्वत्सूत्रं न नश्यति ।
तथा देहेषु नष्टेषु नैव नश्याम्यहं सदा ॥ ३२ ॥
</verse>
<verse>पर्यङ्करज्जुरन्ध्रेषु नानेवैकापि सूर्यभा ।
एकोऽप्यनेकवद्भाति तथा क्षेत्रेषु सर्वगः ॥ ३३ ॥
</verse>
<verse>रज्जुरन्ध्रस्थदोषादि सूर्यभां न स्पृशेद्यथा ।
तथा क्षेत्रस्थदोषादि सर्वगं मां न संस्पृशेत् ॥ ३४ ॥
</verse>
<verse>तद्रज्जुरन्ध्रनाशेषु नैव नश्यति सूर्यभा ।
तथा क्षेत्रविनाशेषु नैव नश्यामि सर्वगः ॥ ३५ ॥
</verse>
<verse>देहो नाहं प्रदृश्यत्वाद्भौतिकत्वान्न चेन्द्रियम् ।
प्राणो नाहमनेकत्वान्मनो नाहं चलत्वतः ॥ ३६ ॥
</verse>
<verse>बुद्धिर्नाहं विकारित्वात्तमो नाहं जडत्वतः ।
देहेन्द्रियादिकं नाहं विनाशित्वाद्धाघटादिवत् ॥ ३७ ॥
</verse>
<verse>देहेन्द्रियप्राणमनोबुद्धध्यज्ञानानि भासयन् ।
अहंकारं तथा भामि चैतेषामभिमानिनम् ॥ ३८ ॥
</verse>
</page>
<ignore>अद्वैतानुभूतिः ।
<verse>यथा न संस्पृशेत्सूत्रं पुष्पाणामुत्तमादिता ।
तथा नैकं सर्वगं मां देहानामुत्तमादिता ॥ ३१ ॥
<verse>पुष्पेषु तेषु नष्टेषु यद्वत्सूत्रं न नश्यति ।
तथा देहेषु नष्टेषु नैव नश्याम्यहं सदा ॥ ३२ ॥
<verse>पर्यङ्करज्जुरन्ध्रेषु नानेवैकापि सूर्यभा ।
एकोऽप्यनेकवद्भाति तथा क्षेत्रेषु सर्वगः ॥ ३३ ॥
<verse>रज्जुरन्ध्रस्थदोषादि सूर्यभां न स्पृशेद्यथा ।
तथा क्षेत्रस्थदोषादि सर्वगं मां न संस्पृशेत् ॥ ३४ ॥
<verse>तद्रज्जुरन्ध्रनाशेषु नैव नश्यति सूर्यभा ।
तथा क्षेत्रविनाशेषु नैव नश्यामि सर्वगः ॥ ३५ ॥
<verse>देहो नाहं प्रदृश्यत्वाद्भौतिकत्वान्न चेन्द्रियम् ।
प्राणो नाहमनेकत्वान्मनो नाहं चलत्वतः ॥ ३६ ॥
<verse>बुद्धिर्नाहं विकारित्वात्तमो नाहं जडत्वतः ।
देहेन्द्रियादिकं नाहं विनाशित्वाद्
<verse>देहेन्द्रियप्राणमनोबुद्