This page has been fully proofread once and needs a second look.

<page>
<ignore>
७०
 
अद्वैतानुभूतिः ।
 
</ignore>
<verse>
भानुस्फुरणतो यद्वत्स्फुरतीव घटादिकम् ।
 

स्फुरतीव प्रमेयादिरात्मस्फुरणतस्तथा ॥ २३ ॥
 
</verse>
<verse>
पिष्टादिगुलसंपर्काद्गुलवत्प्रीतिमान्यथा ।

आत्मयोगात्प्रमेयादिरात्मवत्प्रीतिमान्भवेत् ॥ २४ ॥
 
</verse>
<verse>
घटनीरान्नपिष्टानामुष्णत्वं वह्नियोगतः ।
 

वह्निं विना कथं तेषामुष्णता स्याद्यथा क्वचित् ॥ २५ ॥
 
</verse>
<verse>
भूतभौतिक देहानां स्फूर्तिता स्वात्मयोगतः ।
 

विनात्मानं कथं तेषां स्फूर्तिता स्यात्तथा क्वचित् ॥ २६ ॥
 
</verse>
<verse>
नानाविधेषु कुम्भेषु वसत्येकं नभो यथा ।

नानाविधेषु देहेषु तद्वदेको वसाम्यहम् ॥ २७ ॥
 
</verse>
<verse>
नानाविधत्वं कुम्भानां न यात्येव यथा नभः ।

नानाविधत्वं देहानां तद्वदेव नयाम्यहम् ॥ २८ ॥
 
</verse>
<verse>
यथा घटेषु नष्टेषु घटाकाशो न नश्यति ।

तथा देहेषु नष्टेषु नैव नश्यामि सर्वगः ॥ २९ ॥
 
</verse>
<verse>
उत्तमादीनि पुष्पाणि वर्तन्ते सूत्रके यथा ।

उत्तमाद्यास्तथा देहा वर्तन्ते मयि सर्वदा ॥ ३० ॥
 
</verse>
</page>