2026-02-24 05:32:34 by ambuda-bot
This page has not been fully proofread.
७०
अद्वैतानुभूतिः ।
भानुस्फुरणतो यद्वत्स्फुरतीव घटादिकम् ।
स्फुरतीव प्रमेयादिरात्मस्फुरणतस्तथा ॥ २३ ॥
पिष्टादिगुलसंपर्काद्गुलवत्प्रीतिमान्यथा ।
आत्मयोगात्प्रमेयादिरात्मवत्प्रीतिमान्भवेत् ॥ २४ ॥
घटनीरान्नपिष्टानामुष्णत्वं वह्नियोगतः ।
वह्निं विना कथं तेषामुष्णता स्याद्यथा कचित् ॥ २५ ॥
भूतभौतिक देहानां स्फूर्तिता स्वात्मयोगतः ।
विनात्मानं कथं तेषां स्फूर्तिता स्यात्तथा क्वचित् ॥ २६ ॥
नानाविधेषु कुम्भेषु वसत्येकं नभो यथा ।
नानाविधेषु देहेषु तद्वदेको वसाम्यहम् ॥ २७ ॥
नानाविधत्वं कुम्भानां न यात्येव यथा नभः ।
नानाविधत्वं देहानां तद्वदेव नयाम्यहम् ॥ २८ ॥
यथा घटेषु नष्टेषु घटाकाशो न नश्यति ।
तथा देहेषु नष्टेषु नैव नश्यामि सर्वगः ॥ २९ ॥
उत्तमादीनि पुष्पाणि वर्तन्ते सूख के यथा ।
उत्तमाद्यास्तथा देहावर्तन्ते मयि सर्वदा ॥ ३० ॥