This page has been fully proofread once and needs a second look.

<page>
<ignore>
अद्वैतानुभूतिः ।
 
६९</ignore>
<verse>
यथा बुद्बुदनाशेन जलनाशो न कर्हिचित् ।
 

तथा प्रपञ्चनाशेन नाशः स्यादात्मनो न हि ॥ १५ ॥
 
</verse>
<verse>
अहि निर्ल्वयनीजातः शुच्यादिर्नाहिमाप्नुयात् ।
 

तथा स्थूलादिसंभूतः शुच्यादिर्नाप्नुयादिमम् ॥ १६ ॥
 
</verse>
<verse>
त्यक्तां त्वचमहिर्यद्वदात्मत्वेन न मन्यते ।
 

आत्मत्वेन सदा ज्ञानी त्यक्तदेहत्रयं तथा ॥ १७ ॥
 
</verse>
<verse>
अहिनिर्ल्वयनीनाशादहेर्नाशो यथा न हि ।

देहवयविनाशेन नात्मनाशस्तथा भवेत् ॥ १८ ।
 
</verse>
<verse>
तक्रादिलवणोपेतमज्ञैर्लवणवद्यथा ।
 

आत्मा स्थूलादिसंयुक्तो दृष्यते स्थूलकादिवत् ॥ १९ ॥
 
</verse>
<verse>
अयः काष्ठादिकं यद्वद्वह्निवद्वह्नियोगतः ।
 

भाति स्थूलादिकं सर्वमात्मवत्स्वात्मयोगतः ॥ २० ॥
 
</verse>
<verse>
दाहको नैव दाह्यं स्याद्दाह्यं तद्वन्न दाहकः ।

नैवात्मायमनात्मा स्यादनात्मायं न चात्मकः ॥ २१ ॥
 
</verse>
<verse>
प्रमेयादित्रयं सार्थं भानुना घटकुड्यवत् ।
 

येन भाति स एवाहं प्रमेयादिविलक्षणः ॥ २२ ॥
 
६९
 
</verse>
</page>