2026-02-24 05:32:34 by ambuda-bot
This page has not been fully proofread.
अद्वैतानुभूतिः ।
यथा बुद्बुदनाशेन जलनाशो न कर्हिचित् ।
तथा प्रपञ्चनाशेन नाशः स्यादात्मनो न हि ॥ १५ ॥
अहि निर्बयनीजातः शुच्यादिर्नाहिमाप्नुयात् ।
तथा स्थूलादिसंभूतः शुच्यादिर्नाप्नुयादिमम् ॥ १६ ॥
त्यक्तां त्वचमहिर्यद्वदात्मत्वेन न मन्यते ।
आत्मत्वेन सदा ज्ञानी त्यक्तदेहत्रयं तथा ॥ १७ ॥
अहिनिवयनीनाशादहेर्नाशो यथा न हि ।
देहवयविनाशेन नात्मनाशस्तथा भवेत् ॥ १८ ।
तक्रादिलवणोपेतमज्ञैर्लवणवद्यथा ।
आत्मा स्थूलादिसंयुक्तो दृष्यते स्थूलकादिवत् ॥ १९ ॥
अयः काष्ठादिकं यद्वद्वह्निवद्वह्नियोगतः ।
भाति स्थूलादिकं सर्वमात्मवत्स्वात्मयोगतः ॥ २० ॥
दाहको नैव दाह्यं स्याद्दाह्यं तद्वन्न दाहकः ।
नैवात्मायमनात्मा स्यादनात्मायं न चात्मकः ॥ २१ ॥
प्रमेयादित्रयं सार्थ भानुना घटकुड्यवत् ।
येन भाति स एवाहं प्रमेयादिविलक्षणः ॥ २२ ॥
६९