2026-03-07 05:34:45 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>६८
अद्वैतानुभूतिः ।
</ignore>
<verse>एकोऽपि द्वयवद्भाति यथाकाश उपाधितः ।
एकोऽपि द्वयवत्पूर्णस्तथात्मायमुपाधितः ॥ ७ ॥
</verse>
<verse>कारणोपाधिचैतन्यं कार्यसंस्थाच्चितोऽधिकम् ।
न घटाभ्रान्मृदाकाश:शः कुत्रचिन्नाधिको भवेत् ॥ ८ ॥
</verse>
<verse>निर्गतोपाधिराकाश एक एव यथा भवेत् ।
एक एव तथात्मायं निर्गतोपाधिकः सदा ॥ ९ ॥
</verse>
<verse>आकाशादन्य आकाश आकाशस्य यथा न हि ।
एकत्वादात्मनो नान्य आत्मा सिध्यति चात्मनः ॥ १० ॥
</verse>
<verse>मेघयोगाद्यथा नीरं करकाकारतामियान् ।
त् ।
मायायोगात्तथैवात्मा प्रपञ्चाकारतामियात् ॥ ११ ॥
</verse>
<verse>वर्षोपल इवाभाति नीरमेवाभ्रयोगतः ।
वर्षोपलविनाशेन नीरनाशो यथा न हि ॥ १२ ॥
</verse>
<verse>आत्मैवायं तथा भाति मायायोगात्प्रपञ्चवत् ।
प्रपञ्चस्य विनाशेन स्वात्मनाशो न हिकक्वचित् ॥ १३ ॥
</verse>
<verse>जलादन्य इवाभाति जलोत्थो बुद्बुदो यथा ।
तथात्मनः पृथगिव प्रपञ्चोऽयमनेकधा ॥ १४ ॥
</verse>
</page>
<ignore>६८
<verse>एकोऽपि द्वयवद्भाति यथाकाश उपाधितः ।
एकोऽपि द्वयवत्पूर्णस्तथात्मायमुपाधितः ॥ ७ ॥
<verse>कारणोपाधिचैतन्यं कार्यसंस्थाच्चितोऽधिकम् ।
न घटाभ्रान्मृदाका
<verse>निर्गतोपाधिराकाश एक एव यथा भवेत् ।
एक एव तथात्मायं निर्गतोपाधिकः सदा ॥ ९ ॥
<verse>आकाशादन्य आकाश आकाशस्य यथा न हि ।
एकत्वादात्मनो नान्य आत्मा सिध्यति चात्मनः ॥ १० ॥
<verse>मेघयोगाद्यथा नीरं करकाकारतामिया
मायायोगात्तथैवात्मा प्रपञ्चाकारतामियात् ॥ ११ ॥
<verse>वर्षोपल इवाभाति नीरमेवाभ्रयोगतः ।
वर्षोपलविनाशेन नीरनाशो यथा न हि ॥ १२ ॥
<verse>आत्मैवायं तथा भाति मायायोगात्प्रपञ्चवत् ।
प्रपञ्चस्य विनाशेन स्वात्मनाशो न हि
<verse>जलादन्य इवाभाति जलोत्थो बुद्बुदो यथा ।
तथात्मनः पृथगिव प्रपञ्चोऽयमनेकधा ॥ १४ ॥
</page>