2026-02-24 05:32:34 by ambuda-bot
This page has not been fully proofread.
६८
अद्वैतानुभूतिः ।
एकोऽपि द्वयवद्भाति यथाकाश उपाधितः ।
एकोऽपि द्वयवत्पूर्णस्तथात्मायमुपाधितः ॥ ७ ॥
कारणोपाधिचैतन्यं कार्यसंस्थाच्चितोऽधिकम् ।
न घटाभ्रान्मृदाकाश: कुत्रचिन्नाधिको भवेत् ॥ ८ ॥
निर्गतोपाधिराकाश एक एव यथा भवेत् ।
एक एव तथात्मायं निर्गतोपाधिकः सदा ॥ ९ ॥
आकाशादन्य आकाश आकाशस्य यथा न हि ।
एकत्वादात्मनो नान्य आत्मा सिध्यति चात्मनः ॥ १० ॥
मेघयोगाद्यथा नीरं करकाकारतामियान् ।
मायायोगात्तथैवात्मा प्रपञ्चाकारतामियात् ॥ ११ ॥
वर्षोपल इवाभाति नीरमेवाभ्रयोगतः ।
वर्षोपलविनाशेन नीरनाशो यथा न हि ॥ १२ ॥
आत्मैवायं तथा भाति मायायोगात्प्रपञ्चवत् ।
प्रपञ्चस्य विनाशेन स्वात्मनाशो न हि कचित् ॥ १३ ॥
जलादन्य इवाभाति जलोत्थो बुद्बुदो यथा ।
तथात्मनः पृथगिव प्रपञ्चोऽयमनेकधा ॥ १४ ॥