This page has not been fully proofread.

॥ श्रीः ॥
 
॥ अद्वैतानुभूतिः ॥
 
अहमानन्दसत्यादिलक्षणः केवलः शिवः ।
सदानन्दादिरूपं यत्तेनाहमचलोऽद्वयः ॥ १ ॥
 
अक्षिदोषाद्यथैकोऽपि द्वयवद्भाति चन्द्रमाः ।
 
एकोऽप्यात्मा तथा भाति द्वयवन्मायया मृषा ॥ २ ॥
 
अक्षिदोषविहीनानामेक एव यथा शशी ।
मायादोषविहीनानामात्मैवैकस्तथा सदा ॥ ३ ॥
 
द्वित्वं भात्यक्षिदोषेण चन्द्रे स्वे मायया जगत् ।
द्वित्वं मृषा यथा चन्द्रे मृषा द्वैतं तथात्मनि ॥ ४॥
 
आत्मनः कार्यमाकाशो विनात्मानं न संभवेत् ।
कार्यस्य पूर्णता सिद्धा किं पुनः पूर्णतात्मनः ॥ ५ ॥
 
कार्यभूतो यथाकाश एक एव न हि द्विधा ।
हेतुभूतस्तथात्मायमेक एव विजानतः ॥ ६ ॥