This page has been fully proofread once and needs a second look.

<page>
<ignore>
६०
 
अद्वैतपञ्चरत्नम् ।
 
</ignore>
<verse>
नाहं जातो न प्रवृद्धो न नष्टो
 

देहस्योक्ताः प्राकृताः सर्वधर्माः ।

कर्तृत्वादिश्चिन्मयस्यास्ति नाहं-
 

कारस्यैव ह्यात्मनो मे शिवोऽहम् ॥ ४ ॥
 
</verse>
<verse>
मत्तो नान्यत्किंचिदत्रास्ति विश्
 
वं
सत्यं बाह्यं वस्तु मायोपक्लकॢप्तम् ।

आदर्शान्तर्भासमानस्य तुल्यं ।
 

मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥ ५ ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 

श्रीमच्छंकरभगवतः कृतौ
 

अद्वैतपञ्चरत्नं संपूर्णम् ॥
 
</trailer>
</page>