This page has not been fully proofread.

६०
 
अद्वैतपञ्चरत्नम् ।
 
नाहं जातो न प्रवृद्धो न नष्टो
 
देहस्योक्ताः प्राकृताः सर्वधर्माः ।
कर्तृत्वादिश्चिन्मयस्यास्ति नाहं-
 
कारस्यैव ह्यात्मनो मे शिवोऽहम् ॥ ४ ॥
 
मत्तो नान्यत्किंचिदत्रास्ति विश्व
 
सत्यं बाह्यं वस्तु मायोपक्लप्तम् ।
आदर्शान्तर्भासमानस्य तुल्यं ।
 
मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥ ५ ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
 
अद्वैतपञ्चरत्नं संपूर्णम् ॥