This page has been fully proofread once and needs a second look.

<page>
<ignore>
५६
 
</ignore>
<ignore>
मनीषापञ्चकम् ।
 
</ignore>
<verse>
या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यते

यद्भासा हृदयाक्ष देहविषया भान्ति स्वतोऽचेतनाः ।

तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तितिं सदा भावय-

न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥ ४॥
 
</verse>
<verse>
यत्सौख्याम्बुधिलेशलेशत इमे शक्रादयो निर्वृता

यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः ।

यस्मिन्नित्यसुखाम्बुधौ गलितधीर्ब्रह्मैव न ब्रह्मवि-
 

द्यः कश्चित्स सुरेन्द्रवन्दितपदो नूनं मनीषा मम ॥ ५ ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 

श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य
 

श्रीमच्छकरभगवतः कृतौ
 

मनीषापञ्चकं संपूर्णम् ॥
 
</trailer>
</page>