This page has not been fully proofread.

11 : 11
 
॥ मनीषापञ्चकम् ॥
 
जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते
 
या ब्रह्मादि पिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी ।
सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चे-
चाण्डालोsस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥
 
ब्रह्मैवाहमिदं जगच सकलं चिन्मात्रविस्तारितं
 
सर्व चैविद्यया त्रिगुणया शेषं मया कल्पितम् ।
इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले
चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥
 
शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो-
नित्यं ब्रह्म निरन्तरं विसृशता निर्व्याजशान्तात्मना ।
भूतं भाति च दुष्कृतं प्रदहता संविन्मये पावके
 
प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥ ३ ॥