2026-03-06 07:06:16 by akprasad
This page has not been fully proofread.
.
<ignore>५२
<verse>देशाभावात्
पूर्णे मयि स्थानदेशौ कल्पितावहमद्वयः ॥ ६२ ॥
<verse>प्राणसंचारसंशोषात्पिपासा जायते खलु ।
शोषणानर्ह
<verse>नाडीषु पीड्यमानासु वाय्वग्निभ्यां भवेत्क्षुधा ।
तयोः पीडनहेतुत्वात्संविद्रूपे कथं मयि ॥ ६४ ॥
<verse>शरीरस्थितिशैथिल्यं श्वेतलोमसमन्वितम् ।
जरा भवति सा नास्ति निरंशे मयि सर्वगे ॥ ६५ ॥
<verse>योषित्क्रीडा सुखस्यान्तर्गर्वाढ्यं यौवनं किल ।
आत्मानन्दे परे पूर्णे मयि नास्ति हि यौवनम् ॥ ६६॥
<verse>मूढबुद्धिपरिव्याप्तं दुःखानामालयं सदा ।
बाल्यं कोपनशीलान्तं न मे सुखजलाम्बुधेः ॥ ६७ ॥
<verse>एवं तत्त्वविचाराब्धौ निमग्नानां सदा नृणाम् ।
परमाद्वैतविज्ञानमपरोक्षं न संशयः ॥ ६८ ॥
<trailer>इति श्रीमत्परमहसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्य-
पादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
स्वात्मप्रकाशिका संपूर्णा ॥
</page>