This page has not been fully proofread.

-
 
.५२
 
स्वात्मप्रकाशिका ।
 
देशाभावात्क गन्तव्यं स्थानाभावात्क वा स्थितिः ।
पूर्णे मयि स्थानदेशौ कल्पितावहमद्वयः ॥ ६२ ॥
प्राणसंचारसंशोषात्पिपासा जायते खलु ।
शोषणानर्ह चिद्रूपे मय्येषा जायते कथम् ॥ ६३ ॥
नाडीषु पीड्यमानासु वाय्वग्निभ्यां भवेत्क्षुधा ।
तयोः पीडनहेतुत्वात्संविद्रूपे कथं मयि ॥ ६४ ॥
शरीरस्थितिशैथिल्यं श्वेतलोमसमन्वितम् ।
 
जरा भवति सा नास्ति निरंशे मयि सर्वगे ॥ ६५ ॥
 
योषित्क्रीडा सुखस्यान्तर्गर्वाढ्यं यौवनं किल ।
 
आत्मानन्दे परे पूर्णे मयि नास्ति हि यौवनम् ॥ ६६॥
 
मूढबुद्धिपरिव्याप्तं दुःखानामालयं सदा ।
 
बाल्यं कोपनशीलान्तं न मे सुखजलाम्बुधेः ॥ ६७ ॥
 
एवं तत्त्वविचाराब्धौ निमग्नानां सदा नृणाम् ।
परमाद्वैतविज्ञानमपरोक्षं न संशयः ॥ ६८ ॥
 
इति श्रीमत्परमहसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्य-
पादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
 
स्वात्मप्रकाशिका संपूर्णा ॥