This page has not been fully proofread.

स्वात्मप्रकाशिका
 
यथा शीतं जलं वह्निसंबन्धादुष्णवद्भवेत् ।
बुद्धितादात्म्यसंबन्धात्कर्तृत्वं वस्तुतो न हि ॥ ५४ ॥
 
जलबिन्दुभिराकाशं न सिक्तं न च शुध्यति ।
तथा गङ्गाजलेनायं न शुद्धो नित्यशुद्धतः ॥ ५५ ॥
 
वृक्षोत्पन्नफलैर्वृक्षो यथा तृप्तिं न गच्छति ।
मय्यध्यस्तान्नपानाद्यैस्तथा तृप्तिर्न विद्यते ॥ ५६ ॥
 
स्थाणौ प्रकल्पितश्चोरः स स्थाणुत्वं न बाधते ।
स्वस्मिन्कल्पितजीवश्च स्वं बाधितुमशक्यते ॥ ५७ ॥
 
अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः ।
विलीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् ॥ ५८ ॥
 
बुद्धेः पूर्णविकासोऽयं जागरः परिकीर्त्यते ।
विकारादिविहीनत्वाज्जागरो मे न विद्यते ॥ ५९ ॥
 
सूक्ष्मनाडीषु संचारो बुद्धेः स्वप्नः प्रजायते ।
संचारधर्मरहिते स्वप्नो नास्ति तथा मयि ॥ ६० ॥
 
परिपूर्णस्य नित्यस्य शुद्धस्य ज्योतिषो मम ।
आगन्तुकमलाभावार्तिक स्नानेन प्रयोजनम् ॥ ६१ ॥
 
५१