2026-03-06 07:04:25 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>५०
स्वात्मप्रकाशिका ।
</ignore>
<verse>चिद्विवर्तजगतोऽस्य कारणं
तत्सदाहमिति मौनमाश्रये ॥ ४६ ॥
</verse>
<verse>उऌलूकस्य यथा भानावन्धकारः प्रतीयते ।
स्वप्रकाशे परानन्दे तमो मूढस्य भासते ॥ ४७ ।
</verse>
<verse>यथा दृष्टिनिरोधार्तो सूर्यो नास्तीति मन्यते ।
तथाज्ञानावृतो देही ब्रह्म नास्तीति मन्यते ॥ ४८ ॥
</verse>
<verse>यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते ।
न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशयन् ॥ ४९ ॥
</verse>
<verse>स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः ।
स्वल्पोऽपि बोधो महतीमविद्यां शमयेत्तथा ॥ ५० ॥
</verse>
<verse>चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम ।
आनन्दत्वान्न मे दुःखमज्ञानाद्भाति तत्त्रयम् ॥ ५१ ॥
</verse>
<verse>कालत्रये यथा सर्पोंपो रज्जौ नास्ति तथा मयि ।
अहंकारादि देहान्तं जगन्नास्त्यहमद्वयः ॥ ५२ ।
</verse>
<verse>भानौ तमःप्रकाशत्वान्नाङ्गीकुर्वन्ति सज्जनाः ।
तमस्तत्कार्यसाक्षीति भ्रान्तबुद्धिरहो मयि ॥ ५३ ॥
</verse>
</page>
<ignore>५०
<verse>चिद्विवर्तजगतोऽस्य कारणं
तत्सदाहमिति मौनमाश्रये ॥ ४६ ॥
<verse>उ
स्वप्रकाशे परानन्दे तमो मूढस्य भासते ॥ ४७ ।
<verse>यथा दृष्टिनिरोधार्तो सूर्यो नास्तीति मन्यते ।
तथाज्ञानावृतो देही ब्रह्म नास्तीति मन्यते ॥ ४८ ॥
<verse>यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते ।
न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशयन् ॥ ४९ ॥
<verse>स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः ।
स्वल्पोऽपि बोधो महतीमविद्यां शमयेत्तथा ॥ ५० ॥
<verse>चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम ।
आनन्दत्वान्न मे दुःखमज्ञानाद्भाति तत्त्रयम् ॥ ५१ ॥
<verse>कालत्रये यथा सर्