This page has not been fully proofread.

५०
 
स्वात्मप्रकाशिका ।
 
चिद्विवर्तजगतोऽस्य कारणं
 
तत्सदाहमिति मौनमाश्रये ॥ ४६ ॥
 
उऌकस्य यथा भानावन्धकारः प्रतीयते ।
स्वप्रकाशे परानन्दे तमो मूढस्य भासते ॥ ४७ ।
 
यथा दृष्टिनिरोधार्तो सूर्यो नास्तीति मन्यते ।
तथाज्ञानावृतो देही ब्रह्म नास्तीति मन्यते ॥ ४८ ॥
 
यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते ।
 
न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशयन् ॥ ४९ ॥
 
स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः ।
 
स्वल्पोऽपि बोधो महतीमविद्यां शमयेत्तथा ॥ ५० ॥
 
चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम ।
 
आनन्दत्वान्न मे दुःखमज्ञानाद्भाति तत्रयम् ॥ ५१ ॥
 
कालत्रये यथा सर्पों रज्जौ नास्ति तथा मयि ।
अहंकारादि देहान्तं जगन्नास्त्यहमद्वयः ॥ ५२ ।
 
भानौ तमःप्रकाशत्वान्नाङ्गीकुर्वन्ति सज्जनाः ।
तमस्तत्कार्यसाक्षीति भ्रान्तबुद्धिरहो मयि ॥ ५३ ॥