2026-03-06 07:02:17 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>स्वात्मप्रकाशिका ।
४९</ignore>
<verse>तस्मादेतत्त्रयं मिथ्या तदर्थो नेश्वरो भवेत् ।
इति जीवेश्वरौ भातः स्वाज्ञानान्न हि वस्तुतः ॥ ४१ ॥
</verse>
<verse>घटाकाशमामठाकाशौ महाकाशे प्रकल्पितौ ।
एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ ॥ ४२ ॥
</verse>
<verse>मायातत्कार्यविलये नेश्वरत्वं च जीवता ।
ततः शुद्धचिदेवाहं चिद्व्योमनिरुपाधितः ॥ ४३ ॥
</verse>
<verse>सत्यचिद्धघनमनन्तमद्वयं
सर्वदृश्यरहितं निरामयम् ।
यत्पदं विमलमद्वयं शिवं
तत्सदाहमिति मौनमाश्रये ॥ ४४ ॥
</verse>
<verse>पूर्णमद्वयमखण्डचेतनं
विश्वभेदकलनादिवर्जितम् ।
अद्वितीयपरसंविदंशकं
तत्सदाहमिति मौनमाश्रये ॥ ४५ ॥
</verse>
<verse merge-next="true">जन्ममृत्यु सुखदुःखवर्जितं
जातिनी तिकुलगोत्रदूरगम् ।
</verse>
<ignore>S. P. III. 4
४९
</ignore>
</page>
<ignore>स्वात्मप्रकाशिका ।
<verse>तस्मादेतत्त्रयं मिथ्या तदर्थो नेश्वरो भवेत् ।
इति जीवेश्वरौ भातः स्वाज्ञानान्न हि वस्तुतः ॥ ४१ ॥
<verse>घटाकाश
एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ ॥ ४२ ॥
<verse>मायातत्कार्यविलये नेश्वरत्वं च जीवता ।
ततः शुद्धचिदेवाहं चिद्व्योमनिरुपाधितः ॥ ४३ ॥
<verse>सत्यचिद्
सर्वदृश्यरहितं निरामयम् ।
यत्पदं विमलमद्वयं शिवं
तत्सदाहमिति मौनमाश्रये ॥ ४४ ॥
<verse>पूर्णमद्वयमखण्डचेतनं
विश्वभेदकलनादिवर्जितम् ।
अद्वितीयपरसंविदंशकं
तत्सदाहमिति मौनमाश्रये ॥ ४५ ॥
<verse merge-next="true">जन्ममृत्यु
जातिनी
<ignore>S. P. III. 4
४९
</page>