2026-02-24 05:32:27 by ambuda-bot
This page has not been fully proofread.
स्वात्मप्रकाशिका ।
तस्मादेतत्रयं मिथ्या तदर्थो नेश्वरो भवेत् ।
इति जीवेश्वरौ भातः स्वाज्ञानान्न हि वस्तुतः ॥ ४१ ॥
घटाकाशमाकाशौ महाकाशे प्रकल्पितौ ।
एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ ॥ ४२ ॥
मायातत्कार्यविलये नेश्वरत्वं च जीवता ।
ततः शुद्धचिदेवाहं चिद्व्योमनिरुपाधितः ॥ ४३ ॥
सत्यचिद्धनमनन्तमद्वयं
सर्वदृश्यरहितं निरामयम् ।
यत्पदं विमलमद्वयं शिवं
तत्सदाहमिति मौनमाश्रये ॥ ४४ ॥
पूर्णमद्वयमखण्डचेतनं
विश्वभेदकलनादिवर्जितम् ।
अद्वितीयपरसंविदंशकं
तत्सदाहमिति मौनमाश्रये ॥ ४५ ॥
जन्ममृत्यु सुखदुःखवर्जितं
जातिनी तिकुलगोत्रदूरगम् ।
S. P. III. 4
४९