2026-03-06 06:59:31 by akprasad
This page has been fully proofread once and needs a second look.
<ignore>४८
<verse>अनाद्यज्ञानमेवात्र कारणं देहमुच्यते ।
नाहं कारणदेहोऽपि स्वप्रकाशो निरञ्जनः ॥ ३३ ॥
<verse>जडत्वप्रियमोदत्वधर्माः कारणदेहगाः ।
न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः ॥ ३४ ॥
<verse>जीवाद्भिन्नः परेशोऽस्ति परेशत्वं कुतस्तव ।
इत्यज्ञजनसंवादो विचारः क्रियतेऽधुना ॥ ३५
<verse>अधिष्ठानं चिदाभासो बुद्धिरेतत्रयं यदा ।
अज्ञानादेकवद्भाति जीव इत्युच्यते तदा ॥ ३६ ॥
<verse>अधिष्ठानं न जीवः स्यात्प्रत्येकं निर्विकारतः ।
अवस्तुत्वाच्चिदाभासो नास्ति तस्य च जीवता ॥ ३७ ॥
<verse>प्रत्येकं जीवता नास्ति बुद्धेरपि जडत्वतः ।
जीव आभासकूटस्थबुद्धित्रयमतो भवेत् ॥ ३८ ॥
<verse>मायाभासी विशुद्धात्मा त्रयमेतन्महेश्वरः ।
मायाभासोऽप्यवस्तुत्वात्प्रत्येकं नेश्वरो भवेत् ॥ ३९ ॥
<verse>पूर्णत्वान्निर्विकारत्वाद्विशुद्धत्वान्महेश्वरः
जडत्वहेतोर्मायायामीश्वरत्वं नु दुर्घटम् ॥ ४० ॥
</page>