2026-03-06 06:57:49 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>स्वात्मप्रकाशिका ।
४७</ignore>
<verse>आत्मानमञ्जसा वेद्मि त्वज्ञानं प्रपलायितम् ।
कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् ॥ २७ ॥
</verse>
<verse>चिदमृतसुखराशौ चित्तफेनं विलीनं
क्षयमधिगत एव वृत्तिचश्ञ्चत्तरङ्गः ।
स्तिमितसुखसमुद्रो निर्विचेष्टः सुपूर्णः
कथमिह मम <error>दु</error><fix>दुः</fix>खं सर्वदैकोऽहमस्मि ॥ २८ ॥
</verse>
<verse>आनन्दरूपोऽहमखण्डबोधः
परात्परोऽहं घनचित्प्रकाशः ।
मेघा यथा व्योम न च स्पृशन्ति
संसारदुःखानि न मां स्पृशन्ति ॥ २९ ॥
</verse>
<verse>अस्थिमांसपुरीषान्त्रचर्मलोमसमन्वितः ।
अन्नादः स्थूलदेहः स्यादतोऽहं शुद्धचिद्धनः ॥ ३० ॥
</verse>
<verse>स्थूलदेहाश्रिता एते स्थूलाद्भिन्नस्य मे न हि ।
लिङ्गं जडात्मकं नाहं चित्स्वरूपोऽहमद्वयः ॥ ३१ ॥
</verse>
<verse>क्षुत्पिपासान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः ।
लिङ्गदेहाश्रिता ह्येते नैवालिङ्गस्य मे विभोः ॥ ३२ ॥
४७
</verse>
</page>
<ignore>स्वात्मप्रकाशिका ।
<verse>आत्मानमञ्जसा वेद्मि त्वज्ञानं प्रपलायितम् ।
कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् ॥ २७ ॥
<verse>चिदमृतसुखराशौ चित्तफेनं विलीनं
क्षयमधिगत एव वृत्तिच