2026-02-24 05:32:27 by ambuda-bot
This page has not been fully proofread.
स्वात्मप्रकाशिका ।
आत्मानमञ्जसा वेद्मि त्वज्ञानं प्रपलायितम् ।
कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् ॥ २७ ॥
चिदमृतसुखराशौ चित्तफेनं विलीनं
क्षयमधिगत एव वृत्तिचश्चत्तरङ्गः ।
स्तिमितसुखसमुद्रो निर्विचेष्टः सुपूर्णः
कथमिह मम दुखं सर्वदैकोऽहमस्मि ॥ २८ ॥
आनन्दरूपोऽहमखण्डबोधः
परात्परोऽहं घनचित्प्रकाशः ।
मेघा यथा व्योम न च स्पृशन्ति
संसारदुःखानि न मां स्पृशन्ति ॥ २९ ॥
अस्थिमांसपुरीषान्त्रचर्मलोमसमन्वितः ।
अन्नादः स्थूलदेहः स्यादतोऽहं शुद्धचिद्धनः ॥ ३० ॥
स्थूलदेहाश्रिता एते स्थूलाद्भिन्नस्य मे न हि ।
लिङ्गं जडात्मकं नाहं चित्स्वरूपोऽहमद्वयः ॥ ३१ ॥
क्षुत्पिपासान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः ।
लिङ्गदेहाश्रिता ह्येते नैवालिङ्गस्य मे विभोः ॥ ३२ ॥
४७