2026-03-06 06:55:44 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>४६
स्वात्मप्रकाशिका ।
</ignore>
<verse>कर्ता चिदन्तःकरणं चिदेव
चिदेव सत्यं परमार्थरूपम् ॥ १९ ॥
</verse>
<verse>न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः ।
मायामात्रविलासो हि मायातीतोऽहमद्वयः ॥ २० ॥
</verse>
<verse>राज्यं करोतु विज्ञानी भिक्षामटतु निर्भयः ।
दोषैर्न लिप्यते शुद्धः पद्मपत्रमिवाम्भसा ॥ २१ ।
</verse>
<verse>पुण्यानि पापकर्माणि स्वप्नगानि न जाग्रति ।
एवं जाग्रत्पुण्यपापकर्माणि न हि मे प्रभोः ॥ २२ ॥
</verse>
<verse>कायः करोतु कर्माणि वृथा वागुच्यतामिह ।
राज्यं ध्यायतु वा बुद्धिः पूर्णस्य मम का क्षतिः ॥ २३ ॥
</verse>
<verse>प्राणाश्चरन्तु तद्धर्मैः कामैर्वा हन्यतां मनः ।
आनन्दामृतपूर्णखस्य मम दुःखं कथं भवेत् ॥ २४ ॥
</verse>
<verse>आनन्दाम्बुधिमग्नोऽसौ देही तत्र न दृश्यते ।
लवणं जलमध्यस्थं यथा तत्र लयं गतम् ॥ २५ ॥
</verse>
<verse>इन्द्रियाणि मनः प्राणा अहंकारः परस्परम् ।
जाड्यसंगतिमुत्सृज्य मग्ना मयि चिदर्णवे ॥ २६ ॥
</verse>
</page>
<ignore>४६
<verse>कर्ता चिदन्तःकरणं चिदेव
चिदेव सत्यं परमार्थरूपम् ॥ १९ ॥
<verse>न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः ।
मायामात्रविलासो हि मायातीतोऽहमद्वयः ॥ २० ॥
<verse>राज्यं करोतु विज्ञानी भिक्षामटतु निर्भयः ।
दोषैर्न लिप्यते शुद्धः पद्मपत्रमिवाम्भसा ॥ २१ ।
<verse>पुण्यानि पापकर्माणि स्वप्नगानि न जाग्रति ।
एवं जाग्रत्पुण्यपापकर्माणि न हि मे प्रभोः ॥ २२ ॥
<verse>कायः करोतु कर्माणि वृथा वागुच्यतामिह ।
राज्यं ध्यायतु वा बुद्धिः पूर्णस्य मम का क्षतिः ॥ २३ ॥
<verse>प्राणाश्चरन्तु तद्धर्मैः कामैर्वा हन्यतां मनः ।
आनन्दामृतपूर्ण