This page has not been fully proofread.

४६
 
स्वात्मप्रकाशिका ।
 
कर्ता चिदन्तःकरणं चिदेव
 
चिदेव सत्यं परमार्थरूपम् ॥ १९ ॥
 
न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः ।
मायामात्रविलासो हि मायातीतोऽहमद्वयः ॥ २० ॥
 
राज्यं करोतु विज्ञानी भिक्षामटतु निर्भयः ।
दोषैर्न लिप्यते शुद्धः पद्मपत्रमिवाम्भसा ॥ २१ ।
 
पुण्यानि पापकर्माणि स्वप्नगानि न जाग्रति ।
एवं जाग्रत्पुण्यपापकर्माणि न हि मे प्रभोः ॥ २२ ॥
 
कायः करोतु कर्माणि वृथा वागुच्यतामिह ।
 
राज्यं ध्यायतु वा बुद्धिः पूर्णस्य मम का क्षतिः ॥ २३ ॥
 
प्राणाश्चरन्तु तद्धर्मैः कामैर्वा हन्यतां मनः ।
 
आनन्दामृतपूर्णख मम दुःखं कथं भवेत् ॥ २४ ॥
 
आनन्दाम्बुधिमग्नोऽसौ देही तत्र न दृश्यते ।
 
लवणं जलमध्यस्थं यथा तत्र लयं गतम् ॥ २५ ॥
 
इन्द्रियाणि मनः प्राणा अहंकारः परस्परम् ।
जाड्यसंगतिमुत्सृज्य मग्ना मयि चिदर्णवे ॥ २६ ॥