This page has not been fully proofread.

स्वात्मप्रकाशिका ।
 
घटावभासको भानुर्घटनाशे न नश्यति ।
देहावभासकः साक्षी देहनाशे न नश्यति ॥ १४ ॥
 
निराकारं जगत्सर्व निर्मलं सच्चिदात्मकम् ।
द्वैताभावात्कथं कस्माद्भयं पूर्णस्य मे वद ॥ १५ ॥
 
ब्रह्मादिकं जगत्सर्वं त्वय्यानन्दे प्रकल्पितम् ।
त्वय्येव लीनं जगत्त्वं कथं लीयसे वद ॥ १६ ॥
 
न हि प्रपञ्च न हि भूतजातं
न चेन्द्रियं प्राणगणो न देहः ।
न बुद्धिचित्तं न मनो न कर्ता
 
ब्रह्मैव सत्यं परमात्मरूपम् ॥ १७ ॥
 
सर्व सुखं विद्धि सुदुःखनाशा-
 
त्सर्वे च सद्रूपमसत्यनाशात् ।
 
चिद्रूपमेव प्रतिभानयुक्तं
 
तस्मादखण्डं परमात्मरूपम् ॥ १८ ॥
 
चिदेव देहस्तु चिदेव लोका-
 
चिदेव भूतानि चिदिन्द्रियाणि ।
 
४५