This page has not been fully proofread.

४४
 
स्वात्मप्रकाशिका
 
सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् ।
प्रपञ्चाधाररूपेण वर्तते तज्जगन्न हि ॥ ६ ॥
 
यथेभ्रुमभिसंव्याप्य शर्करा वर्तते तथा ।
आश्चर्यत्रह्मरूपेण त्वं व्याप्तोऽसि जगत्रयम् ॥ ७ ॥
 
मरुभूमौ जलं सर्वे मरुभूमात्रमेव तत् ।
 
जगत्रयमिदं सर्वं चिन्मात्रं सुविचारतः ॥ ८ ॥
 
ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनस्त्वयि कल्पिता: ।
बुद्बुदादितरङ्गान्ता विकाराः सागरे यथा ॥ ९ ॥
 
तरङ्गत्वं ध्रुवं सिन्धुर्न वाञ्छति यथा तथा ।
विषयानन्दवाञ्छा ते महदानन्दरूपतः ॥ १० ॥
 
पिष्टं व्याप्य गुडं यद्वन्माधुर्ये न हि वाञ्छति ।
पूर्णानन्दो जगद्वयाप्य तदानन्दं न वाञ्छति ॥ ११ ॥
 
दारिद्र्याशा यथा नास्ति संपन्नस्य तथा तव ।
ब्रह्मानन्दनिमग्नस्य विषयाशा न संभवेत् ॥ १२ ॥
 
विषं दृष्ट्रामृतं दृष्ट्वा विषं त्यजति बुद्धिमान् ।
 
आत्मानमपि दृष्ट्वा त्वं त्यजानात्मानमादरात् ॥ १३ ॥