This page has not been fully proofread.

॥ eft: ॥
 
॥ खात्मप्रकाशिका ॥
 
जगत्कारणमज्ञानमेकमेव चिदन्वितम् ।
 
एक एव मनः साक्षी जानात्येवं जगत्रयम् ॥ १ ॥
 
विवेकयुक्तबुद्धयाहं जानाम्यात्मानमद्वयम् ।
तथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥ २ ॥
 
विवर्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा ।
इति संशयपाशेन बद्धोऽहं छिन्द्धि संशयम् ॥ ३॥
 
एवं शिष्यवचः श्रुत्वा गुरुराहोत्तरं स्फुटम् ।
नाज्ञानं न च बुद्धिश्व न जगन्न च साक्षिता ॥ ४ ॥
 
बन्धमोक्षादयः सर्वे कृताः सत्येऽद्वये त्वयि ।
भातीत्युक्ते जगत्सर्व सद्रूपं ब्रह्म तद्भवेत् ॥ ५ ॥