This page has been fully proofread once and needs a second look.

<page>
<ignore>
निर्वाणमञ्जरी ।
 
२३७
 
</ignore>
<verse>
यदासीद्विलासाद्विकारं जगद्य-
 

द्विकाराश्रयं नाद्वितीयत्वतः स्यात् ।

मनोबुद्धिचित्ताहमाकारवृत्ति-
 

प्रवृत्तिर्यतः स्यात्तदेवाहमस्मि ॥ ८ ॥
 
</verse>
<verse>
यदन्तर्बहिर्व्यापकं नित्यशुद्धं
 

यदेकं सदा सच्चिदानन्दकन्दम् ।

यतः स्थूलसूक्ष्मप्रपञ्चस्य भानं

यतस्तत्प्रसूतिस्तदेवाहमस्मि ॥ ९ ॥
 
</verse>
<verse>
यदर्केन्दुविद्युत्प्रभाजालमाला-

विलासास्पदं यत्स्वभेदादिशून्यम् ।
 

समस्तं जगद्यस्य पादात्मकं स्था-
 

द्यतः शक्तिभानं तदेवाहमस्मि ॥ १० ॥
 
</verse>
<verse>
यतः कालमृत्युर्बिभेति प्रकामं
 

यतश्चित्तबुद्धीन्द्रियाणां विलासः ।
 

हरिब्रह्मरुद्रेन्द्र चन्द्रादिनाम-
 

प्रकाशो यतः स्यात्तदेवाहमस्मि ॥ ११ ॥
 
</verse>
</page>