2026-03-06 02:11:40 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२३६
निर्वाणमञ्जरी ।
</ignore>
<verse>अहं नैव मन्ता न गन्ता न वक्ता
न कर्ता न भोक्ता न मुक्ताश्रमस्थः ।
यथाहं मनोवृत्तिभेदस्वरूप-
स्तथा सर्ववृत्तिप्रदीपः शिवोऽहम् ॥ ४ ॥
</verse>
<verse>न मे लोकयात्राप्रवाह प्रवृत्ति-
र्न मे बन्धबुद्ध्या दुरीहानिवृत्तिः ।
प्रवृत्तिर्निवृत्त्यास्य चित्तस्य वृत्ति-
र्यतस्त्वन्वहं तत्स्वरूपः शिवोऽहम् ॥ ५ ॥
</verse>
<verse>निदानं यदज्ञानकार्यस्य कार्य
यं
विना यस्य सत्त्वं स्वतो नैव भाति ।
यदाद्यन्तमध्यान्तरालान्तराल-
प्रकाशात्मकं स्यात्तदेवाहमस्मि ॥ ६ ॥
</verse>
<verse>यतोऽहं न बुद्धिर्न मे कार्यसिद्धि-
ये
र्यतो नाहमङ्गं न मे लिङ्गभङ्गम् ।
हृदाकाशवर्ती गताङ्गत्रयार्तिः
सदा सच्चिदानन्दमूर्तिः शिवोऽहम् ॥ ७ ॥
</verse>
</page>
<ignore>२३६
<verse>अहं नैव मन्ता न गन्ता न वक्ता
न कर्ता न भोक्ता न मुक्ताश्रमस्थः ।
यथाहं मनोवृत्तिभेदस्वरूप-
स्तथा सर्ववृत्तिप्रदीपः शिवोऽहम् ॥ ४ ॥
<verse>न मे लोकयात्राप्रवाह
र्न मे बन्धबुद्ध्या दुरीहानिवृत्तिः ।
प्रवृत्तिर्निवृत्त्यास्य चित्तस्य वृत्ति-
र्यतस्त्वन्वहं तत्स्वरूपः शिवोऽहम् ॥ ५ ॥
<verse>निदानं यदज्ञानकार्यस्य कार्
विना यस्य सत्त्वं स्वतो नैव भाति ।
यदाद्यन्तमध्यान्तरालान्तराल-
प्रकाशात्मकं स्यात्तदेवाहमस्मि ॥ ६ ॥
<verse>यतोऽहं न बुद्धिर्न मे कार्यसिद्धि-
ये
र्यतो नाहमङ्गं न मे लिङ्गभङ्गम् ।
हृदाकाशवर्ती गताङ्गत्रयार्तिः
सदा सच्चिदानन्दमूर्तिः शिवोऽहम् ॥ ७ ॥
</page>