This page has not been fully proofread.

२३६
 
निर्वाणमञ्जरी ।
 
अहं नैव मन्ता न गन्ता न वक्ता
 
न कर्ता न भोक्ता न मुक्ताश्रमस्थः ।
यथाहं मनोवृत्तिभेदस्वरूप-
 
स्तथा सर्ववृत्तिप्रदीपः शिवोऽहम् ॥ ४ ॥
 
न मे लोकयात्राप्रवाह प्रवृत्ति-
 
र्न मे बन्धबुद्ध्या दुरीहानिवृत्तिः ।
प्रवृत्तिर्निवृत्त्यास्य चित्तस्य वृत्ति-
 
र्यतस्त्वन्वहं तत्स्वरूपः शिवोऽहम् ॥ ५ ॥
 
निदानं यदज्ञानकार्यस्य कार्य
 
विना यस्य सत्त्वं स्वतो नैव भाति ।
 
यदाद्यन्तमध्यान्तरालान्तराल-
 
प्रकाशात्मकं स्यात्तदेवाहमस्मि ॥ ६ ॥
 
यतोऽहं न बुद्धिर्न मे कार्यसिद्धि-
 
येतो नाहमङ्गं न मे लिङ्गभङ्गम् ।
हृदाकाशवर्ती गताङ्गत्रयार्तिः
 
सदा सच्चिदानन्दमूर्तिः शिवोऽहम् ॥ ७ ॥