This page has not been fully proofread.

॥ श्रीः ॥
 
॥ निर्वाणमञ्जरी ॥
 
अहं नामरो नैव मर्त्यो न दैत्यो
 
न गन्धर्वयक्षः पिशाचप्रभेदः ।
पुमान्नैव न स्त्री तथा नैव षण्ड:
 
प्रकृष्टः प्रकाशस्वरूपः शिवोऽहम् ॥ १ ॥
 
अहं नैव
 
युवा
 
नैव वृद्धो
 
न वर्णी न च ब्रह्मचारी गृहस्थः ।
 
वनस्थोऽपि नाहं न संन्यस्तधर्मा
जगज्जन्मनाशैकहेतुः शिवोऽहम् ॥ २ ॥
 
अहं नैव मेयस्तिरोभूतमाया
 
तथैवेक्षितुं मां पृथङ्नास्त्युपायः ।
 
समाश्लिष्टकाय त्रयो ऽप्यद्वितीयः
 
सदातीन्द्रियः सर्वरूपः शिवोऽहम् ॥ ३ ॥