This page has not been fully proofread.

२३०
 
लघुवाक्यवृत्तिः ।
 
एकद्वित्रिक्षणेष्वेवं
 
विकल्पस्य निरोधनम् ।
क्रमेणाभ्यखतां यत्ना-
 
ब्रह्मानुभवकाङ्क्षिभिः ॥ १२ ॥
 
सविकल्पकजीवोऽयं
 
ब्रह्म तन्निर्विकल्पकम् ।
 
अहं ब्रह्मेति वाक्येन
 
सोऽयमर्थोऽभिधीयते ॥ १३ ॥
 
सविकल्पकचिद्योऽहं
 
ब्रह्मैकं निर्विकल्पकम् ।
 
स्वतः सिद्धा विकल्पास्ते
 
निरोद्धव्याः प्रयत्नतः ॥ १४ ॥
 
शक्य: सर्वनिरोधेन
 
समाधिर्योगिनां प्रियः ।
 
तदशकौ क्षणं रुवा
 
श्रद्धालुर्ब्रह्मतात्मनः ॥ १५ ॥