2026-02-24 05:33:37 by ambuda-bot
This page has not been fully proofread.
लघुवाक्यवृत्तिः ।
रूपाच्च गुणदोषाभ्यां
विविक्ता केवला चितिः ।
सैवानुवर्तते रूप-
रखादीनां विकल्पने ॥ ८ ॥
क्षणे क्षणेऽन्यथाभूता
धीविकल्पाश्चितिर्न तु ।
मुक्तासु सूत्रवद्बुद्धि-
विकल्पेषु चितिस्तथा ॥ ९ ॥
मुक्ताभिरावृतं सूत्रं
मुक्तयोर्मध्य ईक्ष्यते ।
तथा वृत्तिविकल्पैश्चि-
स्पष्टा मध्ये विकल्पयोः ॥ १० ॥
नष्टे पूर्व विकल्पे तु
यावदन्यस्य नोदयः ।
निर्विकल्पक चैतन्यं
स्पष्टं तावद्विभासते ॥ ११ ॥
२२९
रूपाच्च गुणदोषाभ्यां
विविक्ता केवला चितिः ।
सैवानुवर्तते रूप-
रखादीनां विकल्पने ॥ ८ ॥
क्षणे क्षणेऽन्यथाभूता
धीविकल्पाश्चितिर्न तु ।
मुक्तासु सूत्रवद्बुद्धि-
विकल्पेषु चितिस्तथा ॥ ९ ॥
मुक्ताभिरावृतं सूत्रं
मुक्तयोर्मध्य ईक्ष्यते ।
तथा वृत्तिविकल्पैश्चि-
स्पष्टा मध्ये विकल्पयोः ॥ १० ॥
नष्टे पूर्व विकल्पे तु
यावदन्यस्य नोदयः ।
निर्विकल्पक चैतन्यं
स्पष्टं तावद्विभासते ॥ ११ ॥
२२९