This page has been fully proofread once and needs a second look.

<page>
<ignore>
२२८
 
लघुवाक्यवृत्तिः ।
 
</ignore>
<verse>
जागरस्वप्नयोरेव
 

बोधाभास्रविडम्बना ।
 

सुप्तौ तु तल्लये बोध:
 
धः
शुद्धो जाड्यं प्रकाशयेत् ॥ ४ ॥
 
</verse>
<verse>
जागरेऽपि धियस्तूष्णीं-

भावः शुद्धेन भास्यते ।

धीव्यापाराश्च चिद्भास्या-

श्चिदाभासेन संयुताः ॥ ५ ॥
 
</verse>
<verse>
वह्नितप्तजलं ताप-
 

युक्तं देहस्य तापकम् ।

चिद्भास्या धीस्तदाभास-
 

युक्तान्यं भासयेत्तथा ॥ ६ ॥
 
</verse>
<verse>
रूपादौ गुणदोषादि-
 

विकल्प्रा बुद्धिगा:गाः क्रिया: ।
 
याः ।
ताः क्रिया विषयैः सार्धं
 

भासयन्ती चितिर्मता ॥ ७ ॥
 
</verse>
</page>