This page has not been fully proofread.

॥ श्रीः ॥
 
॥ लघुवाक्यवृत्तिः ॥
 
++
 
स्थूलो मांसमयो देहो
 
सूक्ष्मः स्याद्वासनामयः ।
ज्ञानकर्मेन्द्रियैः सार्धं
 
धीप्राणौ तच्छरीरौ ॥ १ ॥
 
अज्ञानं कारणं साक्षी
बोधस्तेषां विभासकः ।
 
बोधाभासो बुद्धिगतः
 
कर्ता स्यात्पुण्यपापयोः ॥ २ ॥
 
स एव संसरेत्कर्म-
 
वशालोकद्वये सदा ।
बोधाभासाच्छुद्धबोधं
 
विविच्यादतियत्नतः ॥ ३ ॥