This page has been fully proofread once and needs a second look.

<page>
<ignore>
२२४
 
ब्रह्मज्ञानावलीमाला ।
 
</ignore>
<verse>
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ।
 

अनेन वेद्यं सच्छास्त्रमिति वेदान्तडिण्डिमः ॥ २० ॥
 
</verse>
<verse>
अन्तर्ज्योतिर्हिज्र्ज्योतिः प्रत्यग्ज्योतिः परात्परः ।

ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम् ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 

श्रीमच्छंकरभगवतः कृतौ
 

ब्रह्मज्ञानावलीमाला संपूर्णा ॥
 
</trailer>
</page>